|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.286. अध्यायः 286
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वृत्राय सनत्कुमारोक्तविष्णुमाहात्म्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
उशनोवाच। 12-286-0x(6374)(76667)
नमस्तस्मै भगवते देवाय प्रभविष्णवे।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरः॥ 12-286-1(76668)
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्॥ 12-286-2(76669)
भीष्म उवाच। 12-286-3x(6375)
तयोः संवदतोरेवमाजगाम महामुनिः।
सनत्कुमारो धमार्त्मा संशयच्छेदनाय वै॥ 12-286-3(76670)
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा।
निषसादासने राजन्महार्हे मुनिपुङ्गवः॥ 12-286-4(76671)
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत्।
ब्रूह्यस्मै दानवेन्दाय विष्णोर्माहात्म्यमुत्तमम्॥ 12-286-5(76672)
सनत्कुमारस्तु वचः श्रुत्वा प्राह वचोऽर्थवत्।
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते॥ 12-286-6(76673)
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप॥ 12-286-7(76674)
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत।
अवत्येष महाबाहुर्भूतग्रामं चराचरम्।
एष चाक्षिपते काले काले च सृजते पुनः॥ 12-286-8(76675)
नैष दानव ते शक्यस्तपसा नैव चेज्यया।
संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते॥ 12-286-9(76676)
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः।
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते॥ 12-286-10(76677)
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्।
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह॥ 12-286-11(76678)
तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽल्पेन कर्मणा।
यत्नेन महता चैयवाप्येकजातौ विशुद्ध्यते॥ 12-286-12(76679)
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः।
बहुयत्नेन महता दोषनिर्हरणं तथा॥ 12-286-13(76680)
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्।
न मुञ्चति स्वकं गन्धं तथा सूक्ष्मस्य दर्शनम्॥ 12-286-14(76681)
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः।
विमुच्य तं स्वकं गन्धं माल्यगन्धेऽवतिष्ठते॥ 12-286-15(76682)
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह॥ 12-286-16(76683)
कर्मणा स्वेन रक्तानि विरक्तानि च दानव।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु॥ 12-286-17(76684)
यथावत्संप्रवर्तन्ते यस्मिंस्तिष्ठति चानिशम्।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु॥ 12-286-18(76685)
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः।
देवः सृजति भूतानि स्थावराणि चराणि च॥ 12-286-19(76686)
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च।
एकादश विकारात्मा जगत्पिबति रश्मिभिः॥ 12-286-20(76687)
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च॥ 12-286-21(76688)
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते॥ 12-286-22(76689)
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम।
नक्षत्रचक्रं नेत्रं च आस्यमग्निं च दानव।
तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम्॥ 12-286-23(76690)
रजस्तमश्च सत्वं च विद्धि नारायणात्मकम्।
सोश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः॥ 12-286-24(76691)
अकर्मणः फलं चैव स एव परमोऽव्ययः।
छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती॥ 12-286-25(76692)
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः।
स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः॥ 12-286-26(76693)
श्रोत्रशास्त्रग्रहोपेतः षोड्शर्त्विक्क्रतुश्च सः।
पितामहश्च रुद्रश्च सोऽश्विनौ स पुरंदरः॥ 12-286-27(76694)
मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा।
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे॥ 12-286-28(76695)
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदन्त्यपि।
जन्तुः पश्यति विज्ञानात्ततः सत्वं प्रकाशते॥ 12-286-29(76696)
संहारविक्षेपसहस्रकोटी
स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये।
प्रजाविसर्गस्य च पारिमाण्यं
वापीसहस्राणि बहूनि दैत्य॥ 12-286-30(76697)
वाप्यः पुनर्योजनविस्तृतास्ताः
क्रोशं च गम्भीरतयाऽवगाढाः।
आयामतः पञ्चशताश्च सर्वाः
प्रत्येकशो योजनतः प्रवृद्धाः॥ 12-286-31(76698)
वाप्या जलं क्षिप्यति वालकोट्या
त्वह्ना सकृच्चाप्यथ न द्वितीयम्।
तासां क्षये विद्धि परं विसर्गं
संहारमेकं च तथा प्रजानाम्॥ 12-286-32(76699)
ष़ड्जीववर्णाः परमं प्रमाणं
कृष्णो धूम्रो नीलमथास्य मध्यम्।
रक्तं पुनः सह्यतरं सुखं तु
हारिद्रवर्णं सुसुखं च शुक्लम्॥ 12-286-33(76700)
परं तु शुक्लं विमलं विशोकं
गतक्लमं सिद्ध्यति दानवेन्द्र।
गत्वा तु योनिप्रभवाणि दैत्य
सहस्रशः सिद्धिमुपैति जीवः॥ 12-286-34(76701)
गतिं च यां दर्शनमाह देवो
गत्वा शुभं दर्शनमेव चापि।
गतिः पुनर्वर्णकृता प्रजानां
वर्णस्तथा कालकृतोऽसुरेन्द्र॥ 12-286-35(76702)
शतं सहस्राणि चतुर्दशेह
परा गतिर्जीवगणस्य दैत्य।
आरोहणं तत्कृतमेव विद्धि
स्थानं तथा निःसरणं च तेषाम्॥ 12-286-36(76703)
`योऽस्मादथ भ्रश्यति कालयोगा
त्कृष्णे वर्णे तिष्ठति सर्वकृष्टे।
अतिप्रसक्तो निरयाच्च दैत्य
ततस्ततः संपरिवर्तते च॥' 12-286-37(76704)
कृष्णस्य वर्णस्य गतिर्निकुष्टा
स मज्जते नरके पच्यमानः।
स्थानं तथा दुर्गतिभिस्तु तस्य
प्रजाविसर्गान्सुबहून्वदन्ति॥ 12-286-38(76705)
शतं सहस्राणि ततश्चरित्वा
प्राप्नोति वर्णं हरितं तु पश्चात्।
स चैव तस्मिन्निवसत्यनिशो
युगक्षयं तमसा संवृतात्मा॥ 12-286-39(76706)
स वै यदा सत्वगुणेन युक्त
स्तमो व्यपोहन्घटते स्वबुद्ध्या।
स लोहितं वर्णमुपैति नीला
न्मनुष्यलोके परिवर्तते च॥ 12-286-40(76707)
स तत्र संहारविसर्गमेकं
स्वकर्मजैर्बन्धनैः क्लिश्यमानः।
ततः स हारिद्रमुपैति वर्णं
संहारविक्षेपशते व्यतीते॥ 12-286-41(76708)
हारिद्रवर्णस्तु प्रजाविसर्गा
त्सहस्रशस्तिष्ठति संचरन्वै।
अविप्रमुक्तो निरये च दैत्य
ततः सहस्राणि दशापराणि॥ 12-286-42(76709)
गतीः सहस्राणि च पञ्च तस्य
चत्वारि संवर्तकृतानि चैव।
विमुक्तमेनं निरयाच्च विद्धि
सर्वेषु चान्येषु च संभवेषु॥ 12-286-43(76710)
स देवलोके विहरत्यभीक्ष्णं
ततश्च्युतो मानुषतामुपैति
संहारविक्षेपशतानि चाष्टौ
मर्त्येषु तिष्ठन्नमृतत्वमेवि॥ 12-286-44(76711)
सोऽस्मादय भ्रश्यति कालयोगा
त्कृष्णे तले तिष्ठति सर्वकृष्टे।
यथा त्वयं सिध्यति जीवलोक
स्तत्तेऽभिधास्याम्यसुरप्रवीर॥ 12-286-45(76712)
दैवानि स व्यूहशतानि सप्त
रक्तो हरिद्रोऽथ तथैव शुक्लः।
संश्रित्य संधावति शुक्लमेत
मष्टावरानर्च्यतमान्स लोकान्। 12-286-46(76713)
अष्टौ च षष्टिं च शतानि चैव
मनोविरुद्धानि महाद्युतीनाम्।
शुक्लस्य वर्णस्य परा गतिर्या
त्रीण्येव रुद्धानि महानुभाव॥ 12-286-47(76714)
संहाराविक्षेपमनिष्टमेकं
चत्वारि चान्यानि वसत्यनीशः।
षष्ठस्य वर्णस्य परा गतिर्या
सिद्धावसिद्धस्य गतक्लमस्यर॥ 12-286-48(76715)
सप्तोचरं तत्र वसत्यनीशः
संहारविक्षेपशतं सशेषः।
संहारविक्षेपमनिष्टमेकं
चत्वारि चान्यानि वसत्यनीशः।
तस्मादुपावृत्य मनुष्यलोके
ततो महान्मानुषतामुपैति॥ 12-286-49(76716)
तस्मादुपावृत्य ततः क्रमेण
सोग्रेण संतिष्ठति भूतसर्गम्।
स सप्तकृत्वश्च परैति लोका
न्संहारविक्षेपकृतप्रवासः॥ 12-286-50(76717)
सप्तैव संहारमुपप्लवानि
संभाव्य संतिष्ठति जीवलोके।
ततोऽव्ययं स्थानमनन्तमेति
देवस्य विष्णोरथ ब्रह्मणथ।
शेषस्य चैवाथ नरस्य चैव
देवस्य विष्णोः परमस्य चैव॥ 12-286-51(76718)
संहारकाले परदिग्धकाया
ब्रह्माणमायान्ति सदा प्रजाहि।
चेष्टात्मनो देवगणाश्च सर्वे
ये ब्रह्मलोके ह्यमराः स्म तेऽपि॥ 12-286-52(76719)
प्रजानिसर्गे तु स शेषकाले
स्थानानि स्वान्येव सरन्ति जीवाः।
निःशेषतस्तत्पदं वान्ति चान्ते
सर्वे देवा ये सदृशा मनुष्याः॥ 12-286-53(76720)
ये तु च्युताः सिद्धलोकात्क्रमेण
तेषां गतिं यान्ति यथाऽऽनुपूर्व्या।
जीवाः परे तद्बलवेषरूपाः
स्वकं विधिं यान्ति विषर्ययेण॥ 12-286-54(76721)
स यावदेवास्ति सशेषभुक्तिः
प्रजाश्च देव्यौ च तथैव शुक्ले।
तावत्तदङ्गेषु विशुद्धभावः
संयम्य पञ्चेन्द्रियरूपमेतत्॥ 12-286-55(76722)
शुद्धां गतिं तां परमां प्रयाति
शुद्धेन नित्यं मनसा विचिन्वन्।
ततोऽव्ययं स्थानमुपैति ब्रह्म
दुष्प्रापमन्येन स शाश्वतं वै।
इत्येतदाख्यातमहीनसत्व
नारायणस्येह बलं मया ते॥ 12-286-56(76723)
वृत्र उवाच। 12-286-57x(6376)
एवं गते मे न विषादोस्ति कश्चि
त्सम्यक्च पश्यामि वचस्तथैतत्।
श्रुत्वा तु ते वाचमदीनसत्व
विकल्मषोस्म्यद्य तथा विपाष्मा॥ 12-286-57(76724)
प्रवृत्तमेतद्भगवन्महर्षे
महाद्युतेश्चक्रमनन्तवीर्यम्।
विष्णोरनन्तस्य सनातनं त
त्स्थानं सर्गा यत्र सर्वं प्रवृत्ताः।
स वै महात्मा पुरुषोत्तमो वै
तस्मिज्जगत्सर्वमिदं प्रतिष्ठितम्॥ 12-286-58(76725)
भीष्म उवाच। 12-286-59x(6377)
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत्।
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान्॥ 12-286-59(76726)
युधिष्ठिर उवाच। 12-286-60x(6378)
अयं स भगवान्देवः पितामह जनार्दनः।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा॥ 12-286-60(76727)
भीष्म उवाच। 12-286-61x(6379)
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा।
तत्स्थः सृजति तान्भावानात्मरूपान्महामनाः॥ 12-286-61(76728)
तुरीयांशेन तस्येमं विद्धि केशवमच्युतम्।
`तुरीयांशेन ब्रह्माणं तस्य विद्धि महात्मनः।'
तुरीयार्धेन लोकांस्त्रीन्भावयत्येव बुद्धिमान्॥ 12-286-62(76729)
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः।
तान्विघाता प्रसन्नात्मा लोकांश्चरति शाश्वतान्॥ 12-286-63(76730)
सर्वाण्यशून्यानि करोत्यनन्तः
सनातनः संचरते च लोकान्।
स चानिरुद्धः सृजते महात्मा
तत्स्थं जगत्सर्वमिदं विचित्रम्॥ 12-286-64(76731)
युधिष्ठिर उवाच। 12-286-65x(6380)
वृत्रेण परमार्थज्ञ दृष्टा मन्येत्मनो गतिः।
सुखात्तस्मात्स सुखितो न शोचति पितामह॥ 12-286-65(76732)
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह॥ 12-286-66(76733)
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः॥ 12-286-67(76734)
वयं तु भृशमापन्ना रक्ताः कष्टाः सुखेऽसुखे।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ॥ 12-286-68(76735)
भीष्म उवाच। 12-286-69x(6381)
शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः।
विहत्य देवलोकेषु पुनर्मानुषमेध्यथ॥ 12-286-69(76736)
प्रजाविसर्गं च सुखेन लोके
प्रेत्यान्येदेहेषु सुखानि भुक्त्वा।
सुखेन संयास्यथ सिद्धसङ्ख्यां
मा वो भयं भवतु न वोऽस्तु पापम्॥ ॥ 12-286-70(76737)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि ष़डशीत्यधिकद्विशततमोऽध्यायः॥ 286॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-286-1 तलमधोभागः। साकाशमाकाशसहितं सर्वमुपरितनम्। बाहुगोचरो मध्यस्थमित्यर्थः। यस्य पृथ्वीतलं पादमाशा वै बहुगोचरा इति ट. थ. पाठः॥ 12-286-2 अनन्तं स्थानं मोक्षः॥ 12-286-9 नैष दानकृता शक्य इति थ. पाठः॥ 12-286-11 महताल्पकृतेन चेति ध. पाठः॥ 12-286-12 जातिशतैर्जन्मशतैः एकजातौ एकजन्मन्यपि॥ 12-286-22 अप्सु प्रतिष्ठित इति झ. पाठः॥ 12-286-23 नेत्राभ्यां पादयोर्भूश्च दानयेति झ. पाठः॥ 12-286-24 फलं तातेति झ. पाठः॥ 12-286-29 ततो ब्रह्म प्रकाशते इति झ. पाठः॥ 12-286-30 वापीसहस्राणि ततोऽप्यशीतिः इति ध. पाठः॥ 12-286-31 योजनविस्तृताश्चेति थ. पाठः॥ 12-286-34 गत्वाशुयोनिप्रभावानुतीत्येति ध. पाठः॥ 12-286-35 दर्शनमापजीव इति थ. ध. पाठः॥ 12-286-36 जीवगुणस्य दैत्येति झ. थ. पाठः॥ 12-286-38 प्रजानिसर्गात्सबहून्वदन्तीति ट. थ. पाठः॥ 12-286-39 युगक्षये तपसेति झ. पाठः॥ 12-286-44 तिष्ठग्रमलत्वमेतीति ट.थ. पाठः॥ 12-286-50 स्वर्गं सुखं तिष्ठति भूतसर्गमिति ट. पाठः। विक्षेपकृतप्रभाव इति झ. पाठः॥ 12-286-51 सिद्धिलोके इति थ. ध. पाठः। संतिष्ठति सर्वलोके इति ट. पाठः॥ 12-286-53 निश्शेषा वै तत्पदं यान्तति ट. थ. ध. पाठः॥ 12-286-55 सशेषभाव इति ट. पाठः। दिव्याश्च तथैव शुक्ले इति ध. पाठः। तावत्तरत्येष विशुद्धभाव इतिं ध. पाठः॥ 12-286-56 दुष्प्रापमभ्येति स इति झ. ट. थ. पाठः॥ 12-286-61 महादेवो भगवान्स्वेन तेजसेति झ. पाठः। नानारूपान्महामना इति झ. ट. थ. पाठः॥ 12-286-64 सनत्कुमारश्चरते चेति ध. पाठः॥ 12-286-65 मन्ये शुभा गतिरिति थ. पाठः॥ 12-286-66 नावर्तते पुनरिति ध. पाठः॥ 12-286-68 रक्ताः काममुखेषु वै इति ध. पाठः। दुःखमुखेऽमुखे इति झ. पाठः॥ 12-286-70 प्रत्येत्य देवेषु सुखानि बुक्त्वेति झ. पाठः। मा वो भयं भूद्विमलाः स्थ सर्वे इति च. झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|